वांछित मन्त्र चुनें

अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी । अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī | ayaṁ kanīna ṛtupā avedy amimītāraruṁ yaś catuṣpāt ||

पद पाठ

अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी । अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥ १०.९९.१०

ऋग्वेद » मण्डल:10» सूक्त:99» मन्त्र:10 | अष्टक:8» अध्याय:5» वर्ग:15» मन्त्र:4 | मण्डल:10» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयम्) यह परमात्मा (दस्मः) दर्शनीय (वरुणः) वरणीय (न) पदपूरण (मायी) प्रज्ञावान् (नर्येभिः) नरसम्बन्धी-मनुष्यसम्बन्धी (देवेभिः) इन्द्रियों से प्राणों से (दशस्यन्) दुष्ट के लिए दण्ड देता हुआ प्राणों से वियुक्त करता हुआ (अस्य) दण्ड फेंकता है (अयं कनीनः) यह कमनीय (ऋतुपाः) ऋतुओं का रक्षक-ऋतुप्रवर्तक (यः-चतुष्पात्) चार अवस्थावाला (अवेदि) जाना जाता है साक्षात् किया जाता है (अररुम्) काम शत्रु या दुष्टजन को (अमिमीत) हिंसित करता है ॥१०॥
भावार्थभाषाः - परमात्मा ऋतुसंचार करता है, दर्शनीय और वरने के योग्य है, दुष्ट जन को प्राणों से वियुक्त करता है, उपासक ज्ञाता द्वारा चार अवस्थाओं के रूप में साक्षात् होता है, अर्थात् स्थूल जगत् को देखकर, सूक्ष्मजगत् को देखकर प्रकृति को लक्ष्य कर और अपनी आत्मा को लक्ष्य करके जाना जाता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अयं दस्मः) एष परमात्मा दर्शनीयः (वरुणः) वरणीयः (न मायी) खलु, “इवोऽपि दृश्यते” [निरु० १।१०] “इति-उपमावाचकस्य नकारस्य पदपूरणत्वम्” मायावान्-प्रज्ञावान् “माया प्रज्ञानाम” [निघ० ३।९] (नर्येभिः-देवेभिः) नरसम्बन्धिभिरिन्द्रियैः प्राणैः (दशस्यन्) दुष्टाय दण्डं प्रयच्छन् “दशस्यतं दत्तम्” [ऋ० १।१५८।१ दयानन्दः] (अस्य) क्षिपति (अयं-कनीनः-ऋतुपाः) एष कमनीयः-ऋतूनां पाता रक्षकः (यः-चतुष्पात्) यः खलु चतुष्पाद् ब्रह्मात्मा “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” [ऋ० १०।९०।३] “अयमात्मा चतुष्पात्” [माण्डूक्यो-२] (अवेदि) ज्ञायते-साक्षात्क्रियते (अररुम्-अमिमीत) शत्रुं दुष्टजनम् “भ्रातृव्यो वा अररुः” [काठ० २५।४] “अररोः-दुष्टजनस्य” [यजु० १।२६ दयानन्दः] हिनस्ति “मीङ् हिंसायाम्” [क्र्यादि०] व्यत्ययेन श्लुः ॥१०॥